(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.194. अध्यायः 194
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण चारमुखात् भीष्मादिभिः स्वस्वशक्तिप्रकाशनं निशम्य अर्जुनंप्रति तच्छक्तिनिवेदनचोदने तत्कथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-194-0x(3944)(38543)
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे।
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ 5-194-1(38544)
युधिष्ठिर उवाच। 5-194-2x(3945)
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम।
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥ 5-194-2(38545)
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् ।
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥ 5-194-3(38546)
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः।
तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान् ॥ 5-194-4(38547)
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् ।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ 5-194-5(38548)
तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि ।
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ॥ 5-194-6(38549)
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः।
कालेन कियता शत्रून्क्षपयेरिति फाल्गुन ॥ 5-194-7(38550)
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः ।
वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ॥ 5-194-8(38551)
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः ।
असंशयं महाराज हन्युरेव न संशयः ॥ 5-194-9(38552)
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् ।
हन्यामेकरथेनैव वासुदेवसहायवान् ॥ 5-194-10(38553)
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् ।
भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ॥ 5-194-11(38554)
`यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा।'
यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम।
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ॥ 5-194-12(38555)
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् ।
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥ 5-194-13(38556)
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः ।
न च द्रोणसुतो राजन्कुत एव तु सूतजः॥ 5-194-14(38557)
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् ।
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥ 5-194-15(38558)
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव ।
सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ॥ 5-194-16(38559)
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः ।
निहन्युः समरे सेनां देवानामपि पाण्डव ॥ 5-194-17(38560)
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः ।
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥ 5-194-18(38561)
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि।
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ॥ 5-194-19(38562)
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः ।
शैनेयश्च महाबाहुः सहायो रणकेविदः ॥ 5-194-20(38563)
अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः ।
स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च ॥ 5-194-21(38564)
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते।
स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥ ॥ 5-194-22(38565)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-194-2 व्युषितां निशां प्रभातकाले ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.